SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ ॥ अथ पञ्चमोऽध्यायः॥ ४१३ अथमहापातकिनो ब्राह्मणवज सर्वे बध्याः। न शारीरो ब्राह्मणस्य दण्डः। स्वदेशाद्ब्राह्मणं कृताङ्क विवासयेत् । तस्य च ब्रह्महत्यायामशिरस्क पुरुष ललाटे कुर्यात् । . सुराध्वजं सुरापाने। श्वपदं स्तेये। भगं गुरुतल्पगमने। . अन्यत्रापि बध्यकर्मणि तिष्ठन्तं समग्रधनमक्षतं विवासयेत् । कूटशासनकतृ श्व राजा हन्यात् । कूटलेख्यकारांश्च । . गरदामिदप्रसह्यतस्करान् स्त्रीबालपुरुषघातिनश्च । ये च धान्यं दशभ्यः कुम्भेभ्योऽधिकमपहरेयुः । धरिममेयानां शतादप्यधिकं । ये चाकुलीना राज्यमभिकामयेयुः। सेतुभेदकांश्च प्रसह्यतस्कराणाम्बावकाशभक्तपदांश्च । अन्यत्र राजाशक्तेः स्त्रियमशक्तभर्तृको तदतिक्रमणाश्च । हीनवर्गोऽधिकवर्णस्य येनाङ्गेनापराधं कुर्यात्तदेवास्य शातयेत् । एकासनोपवेशी कट्यां कृताङ्को निर्वास्यः। निष्ठीव्योष्ठद्वयविहीनः कार्यः अवशब्दयिता च गुदहीनः । आक्रोशयिता च विजिह्वः । दर्पण धर्मोपदेशकारिणो राजा तप्तमासेचयेत्तैलमास्ये । द्रोहेण च नामजातिग्रहणे दशाङ्गुलोऽस्य शङ्कुलिखेयः । श्रुतदेशजातिकर्मणामन्यथावादी कार्षापणशतद्वयम् दण्ड्यः । काणखञ्जादिनां तथावाद्यपि कार्षापणद्वयम् । गुरूनाक्षिपन कार्षापणशतम् । परस्य पतनीयाक्षेपे कृते तूत्तमसाहसं।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy