SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ४१२ .. विष्णुस्मृतिः। ..सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः । एवं वृत्तस्य नृपतेः शिलोछेनापि जीवतः। विस्तीर्यते यशोलोके तैलविन्दुरिवाम्भसि। . प्रजासुखे सुखी राजा तद्दुःखे यश्च दुःखितः। स कीर्तियुक्तो लोकेऽस्मिन् प्रेत्य स्वर्ग महीयते ।। इति वैष्णवे धर्मशास्त्रे तृतीयोऽध्यायः॥ ॥ अथ चतुर्थोऽध्यायः ॥ जालस्थार्कमरीचिगतं रजस्त्रसरेणुसंज्ञकम् । - तदष्टकं लिख्या। तत्त्रयं राजसर्षपः। तत्रयं गौरसर्षपः । तत्षट्कं यवः। तत्त्रयं कृष्णलम् । तत्पञ्चकं माषः । तद्वादशकमक्षार्द्धम् । अक्षार्द्ध मेव सचतुर्माषकं सुवर्णः। . चतुःसुवर्णकोनिष्कः। द्वे कृष्णले समधृते रूप्यमाषकः । तत्षोडशकं धरणम् । ताम्रकार्षिकः कार्षापणः। । पणानां द्वे शते साढ़ें प्रथमः साहसः स्मृतः । मध्यमः पञ्च विज्ञेयः सहस्रं त्वेव चोत्तमः ।। इति वैष्णवे धर्मशास्त्रे चतुर्थोऽध्यायः॥
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy