________________
तृतीयोऽध्यायः। १११ व्यवहारदर्शने ब्राह्मण वा नियुअचात् । जन्मकर्मव्रतोपेताश्च राज्ञा सभासदः कार्यारिपी मित्रे चये समाः कामक्रोधलोभादिभिः कार्यार्थिभिरनाहाऱ्याः । राजा च सर्वकार्येषु सम्बत्सराधीनः स्यात् । देवब्राह्मणान् सततमेवपूजयेत्।. . वृद्धसेवी भवेत् । यज्ञयाजी च ।। नचास्य विषये ब्राह्मणः क्षुधात्तोऽवसीदेत् ।। नचान्योऽपि सत्कर्मनिरतः। ब्राह्मणेभ्यश्च भुवं प्रतिपादयेत् । येषाञ्च प्रतिपादयेत्तेषां स्ववंश्यानन्तरप्रमाण दानच्छेदोपवर्णनञ्च पटे ताम्रपाने वा लिखितं स्वमुद्राङ्कितश्चागामिनृपबिज्ञापनार्थ दद्यात् । परदत्ताञ्च भुवं नापहरेत् । ब्राह्मणेभ्यः सर्वदायान् प्रयच्छेत् । सर्वतस्त्वात्मानं गोपायेत् सुदर्शनश्च स्यात् । विषनागदमन्त्रधारी च। नापरीक्षितमुपयुञ्जयात् ।। स्मितपूर्वाभिभाषी स्यात्। बध्येष्वपि न ६ कुटीमाचरेत् । अपराधानुरूपञ्च दण्डं दण्डयेषु दापयेत् । सम्यग्दण्डप्रणयनं कुर्य्यात् । द्वितीयमपराधं न कस्यचित् भमेत । स्वधर्ममपालयन्नादण्ड्योनामास्ति राज्ञः। यत्र श्यामो लोहिताक्षो दण्डश्वरति निर्भरः । प्रजास्तत्र विबर्द्धन्ते नेता चेत् साधु पश्यति । स्वराष्ट्र न्यायदण्डः स्याभृशदण्डश्च शत्रुषु ।