________________
४१०
विष्णुस्मृतिः। वापारुष्यदण्डपारुष्ये च नाथदूषण कुर्यात् । आद्यद्वाराणि नोच्छिन्द्यात्। नापात्रवर्षी स्यात् । आकरेभ्यः सर्वमादद्यात् ॥ निधि लब्धां तदद्धं ब्राह्मणेभ्यो दद्यात् द्वितीयमद्धं कोशेप्रवेशयेत् । निधि ब्राह्मणो लब्धा सर्वमादद्यात् । क्षत्रियश्चतुर्थमंशं राज्ञे दद्यात् चतुर्थमंशंब्राह्मणेभ्योऽर्द्ध मादद्यात् । . वैश्यश्चतुर्थमंशं राज्ञे दद्यात् ब्राह्मणेभ्योऽर्द्ध मंशमादद्यात् । शूद्रश्वावाप्त द्वादशधा विभज्य पञ्चाशान् राज्ञे दद्यात् पश्चांशान् ब्राह्मणेभ्योंशद्वयमादद्यात् । अनिवेदितविज्ञातस्य सर्वमपहरेत् । स्वनिहिताद्राज्ञे ब्राह्मणवज द्वादशमंशं दधुः। परनिहितं स्वनिहितमिति ब्रुवंस्तत्समं दण्डमावहेत् ॥ बालानाथस्त्रीधनानि च राजा परिपालयेत् । चौरहृतं धनमवाप्य सर्वमेव सर्ववर्णेभ्योदद्यात् । . अनवाप्य च स्वकोशादेव दद्यात् । शान्तिस्वस्त्ययनैर्दैवोपघातान् प्रशमयेत् । परचक्रोपघातांश्च शस्त्रनित्यतया । वेदेतिहासधर्मशास्त्रार्थकुशल कुलीनमव्यङ्गतपस्विनं पुरोहितञ्च वरयेत् । शुचीनलुब्धानवहिताञ्छक्तिसम्पन्नान् सर्वार्थेषु चसहायान् स्वयमेव व्यवहारान् पश्येद्विद्वद्भिब्राह्मणैः साईम् ।