SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्याय । ४०६ मांसमधुघृतौषविगन्धमूलफलरसदारु पत्राजिनमृद्भाण्डाश्मभाण्डवेदलेभ्यः षष्ठभागम् । ब्राह्मणेभ्यः करादानं न कुर्यात् ते हि राज्ञो धर्मकरदाः। राजा च प्रजाभ्यः सुकृतदुष्कृतषष्ठांशभाक्। स्वदेशपण्याञ्च शुल्कांशं दशममादद्यात् परदेशपण्याच विंशतितमम् । शुल्कस्थानमपक्रामन् सर्वापहारित्वमाप्नुयात् । शिल्पिनः कर्मजीविनश्च शूद्राश्च मासेन राज्ञः कर्म कुयुः । स्वाम्यमात्यदुर्गकोषदण्डराष्ट्रमित्राणि प्रकृतयः। तदूषकांश्च हन्यात् । स्वराष्ट्रपरपाष्ट्रयोश्च चारचक्षुः स्यात् । साधूनां पूजनं कुर्यात् । दुष्टांश्च हन्यात् । शत्रुमित्रोदासीनमध्यमेषु सामभेददानदण्डान् यथार्ह यथाकालं प्रयुञ्जीत । सन्धिविग्रहयानासनसंश्रयद्वैधीभावांश्च यथाकालमाश्रयेत् । . चैत्रे मार्गशीर्ष वा यात्रां यायात्। परस्य व्यसने वा। ___ परदेशावाप्तौ तद्देशधर्मान्नोच्छिन्द्यात् । परेणाभियुक्तश्च सर्वात्मना राष्ट्र गोपायेत् । नास्ति राज्ञां समरे तनुत्यागसहशोधर्मः । गोब्राह्मणपतिमित्रधनदारजीवितरक्षणाचे हतास्ते स्वर्गभाजः । वर्णशङ्कररक्षणार्थे च। राजा पुरावाप्तौ तत्र तत्कुलीनमभिषिञ्चेत् ।। न राजकुलमुच्छिन्द्यात् । अन्यत्राकुलीनराजकुलात् । । मृगयाक्षत्रीपानेष्वभिरतिं न कुर्यात् ।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy