SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ ४०८ विष्णुस्मृतिः। आजवत्वमलोभश्च देवब्राह्मणपूजनम् । अनभ्यसूया च तथा धर्मः सामान्यउच्यते। इति वैष्णवे धर्मशास्त्रे द्वितीयोऽध्यायः । अथ तृतीयोऽध्यायः। । अथ राजधर्माः॥ प्रजापरिपालनं वर्णाश्रमाणां स्वे स्वे धर्मे व्यवस्थापनम् । राजा च जाङ्गलं पशव्यं शस्योपेतं देशमाश्रयेत् पैश्यशूद्रपादञ्च तत्र धन्वनृमहीवारिवृक्षगिरिदुर्गाणा मन्यतमं दुर्गमाश्रयेत् । तत्र प्रामाध्यक्षानपि कुर्यात् । दशाध्यक्षान्। शताध्यक्षान्। देशाध्यक्षांश्च । आमदोषाणां प्रामाध्यक्षः परीहारं कुर्यात् । अशक्तो दशग्रामाध्यक्षाय निवेदयेत् । सोऽप्यशक्तः शताध्यक्षाय । सोऽयशक्तो देशाध्यक्षाय । देशाध्यक्षोऽपि सर्वात्मना दोषमुच्छिन्द्यात् । आकरशुल्कतरनागवनेष्वाप्तान्नियुञ्जीत । धर्मिष्ठान् धर्मकार्येषु । निपुगानर्थकार्येषु । शूरान संग्रामकर्मसु । उप्रानुग्रंषु षण्ढान् स्त्रीषु । प्रजाभ्यो वल्यथं सम्वत्सरेण धान्यतः षष्ठमंशमादद्यात् । सर्वशस्येभ्यश्च द्विकं शतम् ।. पशुहिरण्येभ्यो वस्त्रेभ्यश्च ।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy