________________
प्रथमोऽध्यायः। शेषाहिफणरत्नांशुदुर्विभाव्य मुखाम्बुजम् । शशाङ्कशतसङ्काशं सूर्यायुतसमप्रभम् ॥४१ पीतवाससमक्षोभ्यं सर्वरत्नविभूषितम् । मुकुटेनार्कवणेन कुण्डलाभ्यां विराजितम् ।।४२ संवाह्यमानाधियुगं लक्षम्या करतलैः शुभैः। शरीरधारिभिः शस्त्रैः सेव्यमानं समन्ततः॥४३ तं दृष्ट्वा पुण्डरीकाक्षं ववन्दे मधुसूदनम् । जानुभ्यामवनों गत्वा विज्ञापयति चाप्यथ ॥४४ उद्धृताहं त्वया देव ! रसातलतलङ्गता। खे स्थाने स्थापिता विष्णो ! लोकानां हितकाम्यया ॥४५ तत्राधुना मे देवेश ! का धृतिः भविष्यति । एवमुक्तस्तदा देव्या देवो वचनमब्रवीत् ॥४६ वर्णाश्रमाचाररताः शास्त्रैकतत्परायणाः । त्वां धरे ! धारयिष्यन्ति तेषां तद्भार आहितः ॥४७ एवमुक्ता वसुमती देवदेवमभाषत । वर्णानामाश्रमाणाञ्च धर्मान् वद सनातनान् ।।४८ स्वत्तोऽहं श्रोतुमिच्छामि त्वं हि मे परमा गतिः। नमस्ते देव ! देवेश ! देवारिबलसूदन ! ॥४६ नारायण ! जगनाथ ! शङ्खचक्रगदाधर !। पद्मनाभ ! हृषीकेश ! महाबलपराक्रम ! ॥५० अतीन्द्रिय ! सुदुष्पार! देव ! शार्ङ्गधनुर्द्धर!। वराह ! भीम ! गोविन्द ! पुराण ! पुरुषोत्तम ! ॥५१