________________
४०४
- विष्णुस्मृतिः। उवाच तां वरारोहे ! विज्ञातं हृद्तं मया । धरे तव विशालाक्षि ! गच्छदेवि जनाईनम् ॥३१ स ते वक्ष्यत्यशेषेण भाविनी. ते. यथा स्थितिः । क्षीरोदे बसतिस्तस्य मया ज्ञाता शुभानने ॥३२ ध्यानयोगेन चार्वङ्गि तज्ज्ञानं तत्प्रसादतः॥ . इत्येवमुक्ता सम्पूज्य कश्यपं वसुधा ततः । प्रययौ केशवं द्रष्टुं क्षीरोदमथ स्गरम् ॥३३ सा ददर्शामृतनिधिं चन्द्ररश्मिमनोहरम् । पवनक्षोभसंजातवीचीशतसमाकुलम् ॥३४ हिमवच्छतसङ्काशं भूमण्डलमिवापरम् । वीचोहस्तैर्धवलितैराह्वयानमिव क्षितिम् ॥३५ तैरेव शुभ्रता चन्द्रे विदधानमिवानिशम् । अन्तरस्थेन हरिणा विगताशेषकल्मषम् ॥३६ यस्मात्तस्मात्तु विभ्रन्तं सुशुभ्रां तनुमूजिताम् । पाण्डरं खगमागम्यमधोभुवनवतिनम् ॥३७ इन्द्रनीलकडाराढ्यं विपरीतमिवाम्बरम् । फलावलीसमुद्भूतवनसकसमाचितम् ॥३८ निर्मोकमिव शेषाहेविस्तीर्ण तमतीव हि । तं दृष्ट्वा तश्च मध्यस्थं ददृशे केशवालयम् ॥३६ अनिर्देश्यपरामाणमनिर्देश्यद्धिसंयुतम् । शेषपर्यङ्कशं तस्मिन् ददर्श मधुसूदनम् ॥४०