________________
प्रथमोऽध्यायः।
४०३ वसुधा चिन्तयामास का धृतिमें भविष्यति। पृच्छामि कश्यपं गत्वा स मे वक्ष्यत्यसंशयम् ।।२० मदीयां वहते चिन्तां नित्यमेव महामुनिः। एवं स निश्चयं कृत्वा देवी स्त्रीरूपधारिणी ॥२१ जगाम कश्यपं द्रष्टुं दृष्ट्वांस्ताञ्च कश्यपः। नीलपङ्कजपत्राक्ष शारदेन्दुनिभाननाम् ।।२२ अलिसङ्घालकां शुभ्रां बन्धुजीवाधरां शुभाम् । सुशुभ्रस्पृष्टदशनां चारुनासां नतघ्वम् ।।२३ कम्बुकण्ठी संहतोरूं पीनोरुजघनस्थलीम् । विरेजतुस्ततो यस्याः समौ पीनौ निरन्तरौ ॥२४ मत्तभकुम्भसङ्काशौ शातकुम्भसमद्युती । मृणालकोमलौ बाहू करौ किशलयोपमौ ॥२५ रुक्मस्तम्भनिभावूरू गूढे श्लिष्टे च जानुनी । जङ्घ विरोमे सुषमे पादावतिमनोरमौ ॥२६ जघनश्च घनं मध्यं यथा केशरिणः शिशोः । प्रभायुता नखास्ताम्रा रूपं सर्वमनोहरम् ॥२७ कुर्वाणां वीक्षितैनित्यं नीलोत्पलयुता दिशः। कुर्वाणां प्रभया देवीं तथा वितिमिरा दिशः ॥R८ सुसूक्ष्मशुक्लयसनां रनोत्तमविभूषिताम् । पदन्यासर्वसुमती सपनामिव कुर्वतीं ॥२६ रूपयौवनसम्पन्नां विनीत्वदुपस्थिताम् । समीपमागतां दृष्टा पूजयामास कश्यपः ॥३०