SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ४०२ विष्णुस्मृतिः। नानाच्छन्दोगतिपथो गुह्योपनिषदासनः । छायापन्नीसहायोऽसौ मणिशृङ्गइवोदितः ॥ महीं सागरपन्तिां सशैलवनकाननाम् । एकार्णवजलभ्रष्टानेकार्णवगतः प्रभुः ॥१० दंष्ट्राप्रेण समुद्धृत्य लोकानां हितकाम्यया। आदिदेवो महायोगी चकार जगतीं पुनः ।।११ एवं यज्ञवराहेण भूत्वा भूतहितार्थिना । उद्धृता पृथिवी सर्वा रसातलगता पुरा ॥१२ उद्धृत्य निश्चले स्थाने स्थापिता च तथा स्वके । यथास्थानं विभज्यापस्तद्गता मधुसूदनः ।।१३ सामुद्रधश्च समुद्रेषु नादेयाश्च नदीषु च । पल्ललेषु च पाल्लल्यः सरःसु च सरोवराः ॥१४ पातालसप्तकं चक्रे लोकानां सप्तकं तथा। द्वीपानामुदधीनाञ्च स्थानानि विविधानि च ॥१५ स्थानपालांल्लोकपालानदीशैलवनस्पतीन् । ऋषींश्च सप्त धर्मज्ञान वेदान् साङ्गान् सुरासुरान् ।।१६ पिशाचोरगगन्धर्वयक्षराक्षसमानुषान् । पशुपक्षिमृगाद्यांश्च भूतप्रामं चतुविधम् ।।१७ मेघेन्द्रचापसम्पातान् यज्ञांश्च विविधांस्तथा । एवं वराहो भगवान् कृत्वेदं सचराचरम् ॥१८ जगजगाम लोकानामविज्ञातां तदा गतिम् । अविज्ञातां गतिं याते देवदेवे जनाईने ॥१६
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy