________________
४००.
विष्णुस्मृतिः। न वासुदेवात्परमस्ति मङ्गलं न वासुदेवात्परमस्ति पावनम्। . न वासुदेवात्परमस्ति दैवतं न वासुदेवं प्रणिपत्य सीदति ॥१११ इमा रहस्यां परमामनुस्मृति पधीत्य बुद्धिं लभते च नैष्ठिकम् ।।
विहाय दुःखानि विमुच्य सङ्कटात् स वीतरागो विचरेन्मही मिमाम् ॥११२ गङ्गायां मरणं चैव दृढा भक्तिश्च केशवे ब्रह्मविद्याप्रबोधश्च नाल्पस्य तपसः फलम् ॥११३
इति विष्णुस्मृतिः समाप्ता ॥