________________
३९८
विष्णुस्मृतिः। अज्ञामा मिच्छया शान दद्याद्धर्मोपदेशनम्। कृत्स्ना वा पृथिवीं दद्यात्तेन तुल्यं न तत्फलम् ।।६१ अस्मात् प्रदेयं साधुभ्यो जन्मबन्धभयापहम् । अश्वमेधसहस्राणां सहस्र यः समाचरेत् ॥६२ नासौ फल मवाप्नोति मद्भक्तैर्यदवाप्यते ।
भीष्म उवाच ॥ एवं पृष्टः पुरा तेन नारदेन सुरर्षिणा। यदुवाच तथा शम्भुस्तदुक्तं तव सुब्रत ॥६३ त्वमप्येकमना भूत्वा ध्येयं ज्ञेयं गुणाधिकम । भज सर्वेण भावेन परमात्मान मव्ययम् ॥६४ श्रुत्वैतत् नारदो वाक्यं दिव्यं नारायणेरितम् । अत्यन्तभक्तिमान्देवे एकान्तित्व मुपेयिवान् |६५ नारायण मृषीन्देवं दशवर्षाण्यनन्यभाक् । इदं जपन्वै प्राप्नोति तद्विष्णोः परमं पदम् ।।१६ किं तस्य बहुभिर्मन्त्रैः किं तस्य बहुभितैः । नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥१७ नारायणाय नम ओ मिति वेदमन्त्रंयो नित्यमेव मनसापि समभ्यसेञ्च । पापैः प्रमुच्य परमे तृषयातिविष्णोःस्थानं हि सर्व मिति वेदविदो वदन्ति ।।६८ किं तस्य दानः किं तीर्थैः किं तपोमिः किमधरी। यो नित्यं ध्यायते देव ! नारायण मनन्यधी: IME