SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ वरप्राप्तिवर्णनम्। ३६७ ॐ नमो भगवते तस्मै देहिनां परमात्मने । नारायणाय भक्तानामेकनिष्ठाय शाश्वते ॥८०. हृदिस्थाय च भूतानां सर्वेषां च महात्मने । इमामनुस्मृतिन्दिव्यां वैष्णवीं पापनाशनीम् ॥८१ स्वयम्विबुद्धश्च पठेद्यत्र तत्र समभ्यसेत् । मरणे समनुप्राप्ते यस्त्विमामनुसंस्मरेत् ।।८२ अपि पापममाचारः स याति परमाङ्गतिम् । यद्यहङ्कारमाश्रित्य यज्ञदानतपः क्रियाः ॥८३ कुर्वस्तत्फलमानोति पुनरावर्तते नतु । अभ्यर्चयन् पितृन्देवान् पठन् जुह्वन् बलिंन्ददन् ॥८४ ज्वलदग्नि स्मरेद्यो मां लभते परमाङ्गतिम् । यज्ञोदानं तपः कर्म पावनानि मनीषिणाम् ।।८५ यशोदानं तपस्तस्मात्कुर्यादाशाविवर्जितः । पौर्णमास्याममावास्यों द्वादश्यां च विशेषतः॥८६ श्रावयेच्छ्रधानांश्चमद्क्तांश्च विशेषतः। नम इत्येव यो ब्रूयान्मद्भक्तः श्रद्धयान्वितः ।।८७ तस्याक्षयो भंवेल्लोकः श्वपाकस्यापि नारद । किं पुनर्ये यजन्ते मां साधका विधिपूर्वकम् ।।८८ श्रद्धावन्तो यतात्मान स्ते मां यान्ति मदाश्रिताः । कर्माण्याद्यन्तवन्तीह मद्भक्तोऽनन्तमश्नुते ।। मामेव तस्माद्देवर्षे ध्याहि नित्यमतंन्द्रितः। अवाप्स्यसि तपः सिद्धिं लभ्यसे च पदं मम ॥६०
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy