________________
३६६
विष्णुस्मृतिः। अहङ्कारस्तथा बुद्धिं बुद्धिरब्यक्तमेव च। ... प्रधाने प्रकृति याते गुणसाम्ये व्यवस्थिते ॥६६ वियोगः सर्वकरणैर्गुणैर्भूतैश्च मेऽभवत् । सत्वं रजरतमश्चैव प्रकृति प्रविशन्तु मे ॥७० निष्कैबल्यं पदं देवकांक्षितं परमन्तपः । एकीभावरत्वया मेऽस्तु न मे जन्म भवेत्युनः ॥७१ नमो भगवते तस्मै विष्णवे प्रभविष्णवे । स्वबुद्धिस्तद्गतप्राणस्त्वद्भक्तस्त्वत्परायणः ॥७२ त्वामेवाहं स्मरिष्यामि मरणे पर्युपस्थिते। . पूर्वदेहिकृता ये मे व्याधयः प्रविशन्तु माम् ॥७३ आर्दयन्तु च दुःखानि भृणं मे न भवेदिति । उपदिष्टन्तु मे सर्वे व्याधयः पूर्वचिन्तिताः ॥७४ अनृणो गन्तुमिच्छामि तद्विष्णोः परमम्पदम् । अहं भगवतस्तस्य मम वासः सनातनः ॥७५ तस्याहं न पूणश्यामि सच मे न पूणश्यति । कर्मेन्द्रियाणि संयम्य पञ्च बुद्धीन्द्रियाणि च ॥७६ दशेन्द्रियाणि मनसो यहङ्कारेण वा पुनः । अहङ्कारं तथा बुद्धौ बुद्धिमात्मनि योजयेत् ॥७७ आत्मबुद्धीन्द्रियम्पश्येद्बुद्धौ बुद्धेः परायणम् । ममायमपि तस्याहं येन सर्व मिदन्ततम् ॥७८ आत्मनात्मनि संयोज्य ममात्मन्यनुसंस्मरेत् । एवं बुद्धः परंबुद्ध वा लभते न पुनर्भवम् IIGE