SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ ३६४ विष्णुस्मृतिः। चिन्तयन्तोऽपि अग्नित्यं ब्रह्मशानादयः प्रभुम् । निश्चयं नाधिगच्छन्ति तमस्मि शरणं गतः॥४७ जितेन्द्रिया जितात्मानो ज्ञानध्यानपरायणाः। यं प्राप्य न निवर्तन्ते तमस्मि शरणं गतः ॥४८ एकांशेन जगत् कृत्स्नमवष्टभ्य विभुः स्थितः । अग्राह्यो निर्गुणो नित्यस्तमस्मि शरणं गतः॥४६ सोमार्काग्निगतन्तेजो या च तारामयी द्युतिः । दिवि संजायते यो यः स महात्मा प्रसीदतु ॥५० सूर्यमध्यस्थितः सोमस्तस्य मध्ये च यास्तिता। भूतबाधाचरा दीप्तिः स महात्मा प्रसीदतु ॥५१ सगुणे निर्गुणश्चासौ लक्ष्मीवान् चेतनो हजः । सूक्ष्मः सर्वगतो देही स महात्मा प्रसीदतु ।।५२ साङ्ख्ययोगाश्च ये चान्ये सिद्धाश्च परमर्षयः । यं विदित्वा विमुच्यन्ते स महात्मा प्रसीदतु ॥५३ अव्यक्तः समधिष्ठाता ह्यचिन्त्यः सदसत्परः । आस्थितः प्रकृति भुङ्क्ते स महात्मा प्रसीदतु ।।५४ क्षेत्रज्ञः पञ्चधा भुक्ते प्रकृतिं पञ्चभिर्मुखैः। निर्विकार ! नमस्तेऽस्तु साक्षिक्षेत्रिधवस्थितः ॥५५ अतीन्द्रिय ! नमस्तुभ्यं लिङ्गैर्व्यक्तैन मीयसे । येच त्वां नाभिजानन्ति संसारे सश्चरन्ति ते ॥५६ कामक्रोधविनिर्मुक्ता भक्तास्त्वां प्रविशन्ति च । अव्यक्तमत्यहङ्कारा मनोभूतेन्द्रियाणि च ॥५७
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy