SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ विष्णोःप्रसीद-वर्णनम्। ३६३ गुणाकरः स मे विष्णुर्बासुदेवः प्रसीदतु। अग्निसोमार्कताराणां ब्रह्मरुद्रेन्द्रयोगिनां ॥३६ यस्तेजयति तेजांसि स मे विष्णुः प्रसीदतु। कार्य क्रिया च करणं कर्ता हेतुः प्रयोजनम् ।।३७ अक्रिया करणी कार्य स मे विष्णुः प्रसीदतु । शमीगर्भस्य यो गर्भस्तस्य गर्भस्य यो रिपुः ॥३८ रिपुगर्भस्य यो गर्भः स. मे विष्णुः प्रसीदतु । अबलो येन बालेन कंसमल्लो महाबलः ॥३६. चाणूरो निहतो रङ्गे स मे विष्णुः प्रसीदतु । शङ्खः करवरे यस्य स मे विष्णुः प्रसीदतु ॥४० येन क्रान्तात्रयो लोका दानवाश्च वशीकृताः । शरणं सर्वभूतानां स मे विष्णुः प्रसीदतु ॥४१ योगावास ! नमस्तुभ्यं सर्वावास ! वरप्रद । सर्वादि वासनाद्यादि. वासुदेव ! प्रधानकृत् ॥४२ यज्ञगर्भ ! हिरण्याङ्ग ! पञ्चयज्ञ ! नमोऽस्तुते । चतुर्मचिः परन्धाम लक्षानन्दवराति ॥ ४३ अजस्त्वमगमः पन्था ह्यमूर्तिविश्वमूर्तिधृक् । श्रीकर्तः ! पश्चकालज्ञ ! नमस्ते ज्ञानसागर ॥४४ अव्यक्ताद्वथक्तमुत्पन्नमव्यक्ताद्यः परोऽक्षरः । यस्मात्परतरनास्ति तमस्मि शरणं गतः ।।४५ न प्रधानो नच महान् पुरुषश्चेतनोहजः। अनयोग्यः परतरस्तमस्मि शरणं गतः ।।४६
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy