________________
३१२
विष्णुस्मृतिः। क्षराक्षरविसृष्टस्तु सोऽच्युतः पुरुषोत्तमः । अव्यक्त शाश्वतं देवं प्रभवं पुरुषोत्तमम् ॥२५ प्रपद्ये प्रावलिविष्णु मक्षय्यं भक्तवत्सलम् । पुराणं पुरुष दिव्य मद्भुतं लोकपावनम् ॥२६ प्रपद्ये पुण्डरीकाक्षं देवं नारायणं हरिम् । लोकनाथं सहस्राक्ष मक्षरं परमं पदम् ॥२७ भगवन्तं प्रपन्नोऽस्मि भूतभव्यप्रभुविभुम् । स्रष्टारं सर्वलोकाना मनन्तं विश्वतोमुखं ॥२८ पद्मनाभं हृषीकेशं प्रपद्ये सत्यमच्युतम् । हिरण्यगर्भ ममृतं भूगर्भ परतः परम् ॥२६ प्रभुविभुमनाद्य तं प्रपद्ये तं रविप्रभम् । सहस्रशीर्ष पुरुषं महर्षि सत्यभावनम् ॥३० प्रपद्ये सूक्ष्ममचलं वरेण्यमभयप्रदम् । नारायणं पुराणेशं योगात्मानं सनातनम् ॥३१ संज्ञानां सर्वसत्वानां प्रपद्ये ध्रुवमीश्वरम् । यः प्रभुः सर्वलोकानां येन सर्वमिदं ततम् ॥३२ चराचरगुरुर्देवः स मे विष्णुः प्रसीदतु । यस्मादुत्पद्यते ब्रह्मा पद्मयोनिः पितामहः ॥३३ ब्रह्मयोनिर्हि विश्वस्य स मे विष्णुः प्रसीदतु । चतुर्मिश्च चतुर्मिश्च द्वाभ्यां पञ्चभि रेवच ॥३४ हूयते च पुनर्वाभ्यां स मे विष्णुः प्रसीदतु । पर्जन्यः पृथिवी सस्य कालो धर्मः क्रियाक्रिये ॥३५