SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ ओंकार-वर्णनम्। ३६१ यामधीय प्रयाणे तु मद्भावायोपपद्यते। ओङ्कार मग्रतः कृत्वा मां नमस्कृत्य नारद ॥१४ एकाग्रः प्रयतो भूत्वा इमं मन्त्र मुदीरयेत् । अवशेनापि यन्नाग्नि कीर्तिते सर्वपातकैः ॥१५ पुमान् विमुच्यते सद्यः सिंहवस्तै मंगैरिव । ओमित्येव परं ब्रह्म शाश्वतं परमव्ययम् ॥१६ एतदुच्चारयन्मयो ब्रह्मभूयाय कल्पते । ब्रह्मा विष्णुश्च रुद्रश्च सर्वमो मिति चोच्यते ॥१७ सम्पन्नेऽसुरसंथाने नम्यते च मुमुक्षुभिः। मोक्षश्च ज्ञानिनां प्रोक्तो मोहश्चाज्ञानिनां स्मृतः ॥१८ यस्य यादृग्विधो भाव स्तस्य ताग्विधो हरिः। भबे भवनविश्वात्मा भूतानां हितकाम्यया ॥१६ सृजते आत्मनात्मान मात्मन्येव स्वमायया । हरिरेव सतां नित्यं शरण्यः शरणार्थिनाम् ॥२० नहि नारायणादन्य स्त्रिषु लोकेषु विद्यते । वसत्यमृतमक्षय्यं यस्मिन् लोकाः ससागराः ॥२१ त एव सृजते लोकान् सृष्टिकाले जगत्प्रभुः । तेजांसि येन दिव्यन्ते महोत्पन्नेन तेजसा ।।२२ वासुदेवात्मकं सर्व तत्तेजोऽपि हि नान्यथा । वासनाद्या स्तु ये भावाः संभवन्ति युगे युगे॥२३ लोकत्रयहितार्थाय स्वोपकाराय नो हरिः । यतधोत्पद्यते विश्वं यस्मिन्नेव प्रलिप्यते ॥२४
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy