________________
३६०
विष्णुस्मृतिः। किन्नु स्मरन् कुरुश्रेष्ठ ! मरणे पर्युपस्थिते । प्राप्नुयात् परमां सिद्धिं श्रोतु मिच्छामि तद्वद ॥६
भीष्म उवाच ।। अद्भुतं च हितं सूक्ष्मं उक्त प्रश्न त्वयानघ !। शृणुष्वावहितो राजन् ! नारदेन पुरा श्रुतम् ।।७ श्रीवत्साङ्क जगढीज मनन्तं लोकसाक्षिणम् । पुरा नारायण देवं नारदः परिपृष्टवान् ।।८
नारद उवाच ॥ त्वमक्षरं परं ब्रह्म निर्गुण तमसः परम् । आहुवेद्यं परं धाम ब्रह्मादि कमलोद्भवम् ।। भगवन् ! भूतभव्येश : श्रद्दधान जितेन्द्रियैः । कथं भक्तैर्विचिन्त्योऽसि योगिभिर्देहमोक्षिभिः ॥१० किं च जप्यं जपेन्नित्यं कल्यमुत्थाय मानवाः । कथं युञ्जन् सदा ध्यायन् ब्रूहि तत्त्वं सनातनम् ॥११
भीष्म उवाच ॥ श्रुत्वा तस्य तु देवर्षेर्वाक्यं वाचस्पतिः स्वयम् । प्रोवाच भगवान् विष्णुर्नारदं वरदः प्रभुः ।।१२
श्रीभगवानुवाच ।। हन्त ते कथयिष्यामि इमां दिव्यामनुस्मृतिम् । मरणे मामनुस्मृत्य प्राप्नोति परमां गतिम् ॥१३