SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ निन्यवाह्मणवर्ण्यम्। ३८७ ब्रह्मतत्वं न जानाति ब्रह्मसूत्रेण गर्वितः। तेनैव स च पापेन विप्रः पशुरुदाहृतः ।।३७६ वापीकूपतड़ागानामारामस्य सरःसु च । निःशङ्क रोधकश्चैव स विप्रो म्लेच्छ उच्यते ॥३८० क्रियाहीनश्च मूर्खश्च सर्वधर्मविवर्जितः । निर्दयः सर्वभूतेषु विप्रश्नाण्डालउच्यते ॥३८१ वेदैविहीनाश्च पठन्ति शास्त्र शास्त्रेण हीनाश्च पुराणपाठाः । पुराणहीनाः कृषिणो भवन्ति भ्रष्टास्ततो भागवता भवन्ति ॥३८२ ज्योतिबिंदो ह्यथर्वाणः कोराः पौराणपाठकाः । श्राद्ध यज्ञे महादाने वरणीयाः कदाच न ॥३८३ श्राद्धश्च पितरं घोरं दानं चैव तु निष्फलम् । यज्ञे च फलहानिः स्यात्तस्मात्तान् परिबर्जयेत् ॥३८४ आविकश्चित्रकारश्च वैद्यो नक्षत्रपाठकः । चतुर्विप्रा न पूज्यन्ते वृहस्पतिसमा यदि ॥३८५ मागधो माधु(थु)रश्चैव काफ्टः कीटकानजौ । पञ्च विप्रा न पूज्यन्ते वृहस्पतिसमा यदि ।।३८६ क्रयक्रीता च या कन्या पत्नी सा न विधीयते। तस्यां जाताः सुतास्तेषां पितृपिण्डं न विद्यते ॥३८७ अष्टशल्यागतो नीरं पाणिना पिवते द्विजः। सुरापानेन तत्तुल्यं तुल्यं गोमांसभक्षणम् ॥३८८ ऊर्द्ध जङ्घषु विप्रेषु प्रक्षाल्य चरणद्वयम् । तावच्चाण्डालरूपेण यावद्गङ्गां न मजति ॥३८६
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy