SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ अत्रिसंहिता। वैश्यस्य चानमेवान्नं शूद्रान्न रुधिरं भवेत् । एतत् सर्व मया ख्यातं श्राद्धकाले समुत्थिते ।।३६८ वैश्वदेवे च होमे च देवताभ्याने जपे। अमृतं तेन विप्रान्नमृग्यजुःसामसंस्कृतम् ।।३६६ व्यवहारनुपूर्वेण धर्मेण वलिभिर्जितम् । क्षत्रियान्न पयस्तेन घृतान्नं यज्ञपालने ॥३७० देवो मुनिर्द्विजो राजा वैश्यः शूरो निषादकः । पशुम्र्लेच्छोऽपि चाण्डालो विप्रा दशविधाः स्मृताः॥३७१ सन्ध्यां स्नानं जपं होमं देवतानित्यपूजनम् । अतिथिं वैश्वदेवश्च देवब्राह्मण उच्यते ॥३७२ शाके पत्र फले मूले वनवासे सदा रतः। निरतोऽहरहः श्राद्ध स विप्रो मुनिरुच्यते ॥ ३७३ वेदान्तं पठते नित्यं सर्वसङ्गं परित्यजेत् । साङ्खययोगविचारस्थः स विप्रो द्विज उच्यते ॥३७४ अनाहताश्च धन्वानः संग्रामे सर्वसंमुखे । आरम्भे निर्जिता येन स विप्रः क्षत्र उच्यते ॥३७५ कृषिकर्मरतो यश्च गवाञ्च प्रतिपालकः। वाणिज्यव्यवसायश्च स विप्रो वैश्य उच्यते ॥३७६ लाक्षालवणसंमिश्र कुसुम्भं क्षीरसर्पिषः । विक्रेता मधुमासानां स विप्रः शूद्र उच्यते ॥३७७ चौरश्च तस्करश्चैव सूचको दंशकस्तथा । मत्स्यमांसे सदालुब्धो बिप्रो निषाद उच्यते ॥३७८
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy