SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ अत्रिसंहिता। स्पृष्टा रजस्वलाऽन्योन्यं ब्राह्मण्या वैश्यसम्भवा । चतूरात्रं निराहारा पञ्चगव्येन शुद्धयति ।।२८० स्पृष्टा रजस्वलाऽन्योन्यं ब्राह्मण्या शूद्रसम्भवा । षड्राोण विशुद्धिः स्याब्राह्मणीकामकारतः ।।२८१ अकामतश्चरेदैवं ब्राह्मणी सर्वतः स्पृरोत् ।। चतुर्णामपि वर्णानां शुद्धिरेषा प्रकीर्तिता ॥२८२ उच्छिष्ठेन तु संस्पृष्टो ब्राह्मणो ब्राह्मणेन यः। भोजने मूत्रचारे च शङ्खस्य वचनं यथा ॥२८३ स्नानं ब्राह्मणसंस्पर्श जपहोमौ तु क्षत्रिये । वैश्ये नक्तञ्च कुर्वीत शूद्रे चैव उपोषणम् ।।२८४ चर्मको रजको वैण्यो धीवरो नटकस्तथा। एतान् स्पृष्टा द्विजो मोहादाचामेत् प्रयतोऽपिसन् ।।२८५ एतैः स्पृष्टो द्विजो नित्यमेकरात्रं पयः पिवेत् । उच्छिष्टैस्तै स्त्रिरात्र स्यावृतं प्राश्य विशुद्धयति ।।२८६ यस्तु छायां श्वपाकस्य ब्राह्मणस्त्वधिगच्छति.। तत्र स्नानं प्रकुर्वीत घृतं प्राश्य विशुद्धथति ॥२८७ अभिशस्तो द्विजोऽरण्ये ब्रह्महत्याव्रतं चरेत् । मासोपकासं कुर्वीत चान्द्रायणमथापि वा ।।२८८ वृथा मिथ्योपयोगेन भ्रूणहत्याव्रतञ्चरेत् । अब्भक्षो द्वादशाहेन पराकेणैव शुद्धथति ।।२८६ शठञ्च ब्राह्मण हत्वा शूद्रहत्याब्रतं चरेत् । निर्गुणं सगुणो.हत्वा पराकब्रतमाचरेत् ।।२६
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy