________________
प्रायश्चित्तवर्णनम् ।
३७६ उपपातकसंयुक्तो मानवो म्रियते यदि । तस्य संस्कारकर्ता च प्राजापत्यद्वयश्चरेत् ।।२६१ प्रभुञ्जानोऽतिसस्नेहं कदाचित् स्पृशते द्विजः । त्रिसत्रमाचरेनतैनिःस्नेहमथ वा चरेत् ॥२६२ विडालक्राकाथुच्छिष्टं जग्ध्वा श्वनकुलस्य च । केशकीटावपन्नञ्च पिवेब्राह्मीं सुवर्चसम् ।।२६३ उष्ट्रयानं समारुह्य खरयानञ्च कामतः । स्नात्वाविप्रोपि-दिवासा)जितग्रास प्राणायामेन शुद्धयति ।। सव्याहृती सप्रणवां गायत्रीं शिरसा सह । त्रिः पठेदा(वा)यतःप्राणः प्राणायामः स उच्यते ॥२६५ सद्विगुणगोमूत्रं सर्पिर्दद्याच्चतुर्गुणम् । क्षीरमष्टगुणं देयं पञ्चगव्ये तथा दधि ।।२६६ पञ्चगव्यं पिवेच्छूद्रो ब्राह्मणरतु सुरां पिवेत् । उभौ तौ तुल्यदोषौ च वसतो नरके चिरं ।।२६७ अजा गावो महिष्यश्च अमेव्यं भक्षयन्ति याः। दुग्धं हव्ये च कव्ये च गोमयं न विलेपयेत् ।।२६८ ऊनस्तनीमधिको वा या चान्या स्तनपायिनी। तासां दुग्धं न होतव्यं हुतं. चैवाहृतं भवेत् ।।२६६ ब्राह्मौदने च सोमे च सीमन्तोन्नयने तथा। जातश्राद्ध नवश्राद्ध भुक्त्वा चान्द्रायणं चरेत् ।।३०० राजान्नं हरते तेजः शूद्रान्नं ब्रह्मवर्चसम् । स्वसुतान्नश्च यो भुक्ते स भुङ्क्त पृथिवीमलम् ॥३०१