________________
२०६
अत्रिसंहिता। पतितैः सह संसर्ग मासाद्धं मासमेव वा। गोमूत्रयावकाहारो मासान विशुध्यति ॥२५६ कृच्छाधं पतितस्यैव सकृद्भुक्त्वा द्विजोत्तमः । अविज्ञानाच्च तद्भुक्त्वा कृच्छ् सान्तपनन्चरेत् ।।२६० पतितान्नं यदा भुक्तं भुक्तं चाण्डालवेश्मनि । मासाधन्तु पिवेद्वारि इति शातातपोऽब्रवीत् ॥२६१ गोब्राह्मणहतानाञ्च पतितानां तथैव च। अग्निना न च संस्कारः शङ्खस्य वचनं यथा ।।२६२ यश्चाण्डाली द्विजो गच्छेत् कथञ्चित् काममोहितः । त्रिभिः कृच्छ्र विशुध्येत प्राजापत्यानुपूर्वशः ।।२६३ पतिताच्चान्नमादाय भुक्त्वा वा ब्राह्मणो यदि। छत्वा तस्य समुत्सर्गमतिकृच्छ विनिर्दिशेत् ॥२६४ अन्त्यहस्ताच्छवे क्षिप्त (प्त) काष्ठलोष्ट्रतृणानि च । न स्पृशेत्तु तथोच्छिष्टमहोरात्रं समाचरेत् ।।२६५ चाण्डालं पतितं म्लेच्छ मद्यभाण्डं रजस्वलाम् । द्विजः पृष्ट्वा न भुञ्जीत भुञ्जानो यदि संस्पृशेत् ।।२६६ अतः परं न भुञ्जीत त्यक्त्वाऽन्नं स्नानमाचरेत् । ब्राह्मणैः समनुज्ञात स्त्रिरात्रमुपवासयेत् ।।२६७ सघृतं यावकं प्राश्य व्रतशेषं समापयेत् ।। भुखानः संरघुशेद्यस्तु वायसं कुक्कुटं तथा । त्रिरात्रेणैव शुद्धिः स्यादथोच्छिष्टस्त्वहेन तु (!) २६८