SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्तवर्णनम् । देवयात्राविवाहेषु यज्ञप्रकरणेषु च।... उत्सवेषु च सर्वेषु स्पृष्टास्पृष्टिन विद्यते ॥२४८ आरनालं तथा क्षीरं कन्दुकं दधिसक्तवः। ... स्नेहपकञ्च तक्रञ्च शूद्रास्यापि न दूष्यति ॥२४६ आर्द्रमांसं घृतं तैलं स्नेहाश्च फलसम्भवाः । अन्त्यभाण्डस्थिता एते निष्क्रान्ताः शुद्धिमाप्नुयुः ।।२५० अज्ञानात् पिवते तोयं ब्राह्मणः शूद्रजातिषु । अहोरात्रोषितः स्नात्वा पञ्चगव्येन शुद्धयति ।।२५१ आहिताग्निस्तु यो विप्रो महापातकवान् भवेत् । अप्सु प्रक्षिप्य पात्राणि पश्चादग्नि विनिर्दिशेत् ॥२५२ योऽगृहीत्वा विवाहाग्नि गृहस्व इति मन्यते । अन्नं तस्य न भोक्तव्यं वृथापाको हिसः स्मृतः॥२५३ वृथापाकस्य भुञ्जानः प्रायश्चित्तं चरेद्विजः।। प्राणानप्सु त्रिराचम्य घृतं प्राश्य विशुदयति ॥ २५४ वैदिके लौकिके वाऽपि हुतोच्छिष्टे जले क्षितौ । वैश्वदेवं प्रकुर्वीत पञ्चसूनापमुत्तये ।।२५५ कनीयान गुणवान् श्रेष्ठः श्रेष्ठश्चेन्निर्गुणो भवेत् । पूर्व पाणिं गृहीत्वा च गृह्याग्निं धारयेद्बुधः ॥२५६ ज्येष्ठश्चेद्यदि निर्दोषो गृह्णीयादग्नि(यवीयक:)मग्रतः । नित्यं नित्यं भवेत्तस्य ब्रह्महत्या न संशयः ॥२५७ महापातकसंस्पृष्टः शे) स्नानमेव विधीयते । संघटस्य यदा भुङ्क्ते स्नानसेवः विधीयते ॥२५८
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy