________________
३७४
अत्रिसंहिता। शुचि गोतृप्तिकृतोयं प्रकृतिसं महीगतम् । चर्मभाण्डैस्तु धाराभिस्तथा यन्त्रोद्धृतं जलम् ।।२३७ चण्डालेन तु संस्पृष्टः (2) स्नानमेव विधीयते । उच्छिष्टस्तु च संस्पृष्टस्त्रिरात्रेणैव शुद्धयति ।।२३८ आकराहृतवस्तूनि नाशुचीनि कदाचन । आकराः शुचयः सर्वे वर्जयित्वा सुंसकरम् ॥२३६ भ्र(भृष्टिाभ्र(भृष्टियवाश्चैव तथैव चणकाः स्मृताः । खर्जूरुचैव कर्पूरमन्यद्भ(भृ)ष्टतरं शुचि ।।२४० अमीमांस्यानि शौचानि स्त्रीभिराचरितानि च। अदुष्टाः सततं धारा वातोद्धृताश्च रेणवः ।।२४१ बहूनामेव(क) लग्नानामेकश्वेदशुचिर्भवेत् । अशौचमेकमात्रस्य नेतरेषां कथञ्चन ।।२४२ एकपन्त्युपविष्टानां भोजनेषु पृथक् पृथक् । यवेको लभते नीली सर्वे तेऽशुचयः स्मृताः ॥२४३ यस्य पटे पट्टसूत्रे नीलोरक्तो हि दृश्यते । त्रिरात्रं तस्य दातव्यं शेषाश्चैवोपवासिनः ॥२४४ आदित्येऽस्तमिते राबावरपृश्यं स्पृशते यदि। भगवन् ! केन शुद्धिः स्यात्ततो ब्रूहि तपोधन ।।२४५ आदित्येऽस्तमिते रात्री स्पृशन् हीनं दिवा जलम् । तेनैव सर्व शुद्धिः स्याच्छयरपृथ्न्तु वर्जयेत् ।।२४६ देशंकालं वयः शक्तिं पापञ्चावेक्षयेत्त(श्य यत्रोतः। प्रायश्चित्तं अंकल्प्यं स्याद्यस्य चोक्ता न निष्कृतिः ।।२४७