SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्तम्। हत्वा व्यहं पिवेत् क्षीरं कृच्छू वा पादिकञ्चरेत् । चाण्डालस्य च संस्मृष्टं विण्मूत्रस्पृष्टमेव वा ॥२२६ त्रिरात्रेण विशुद्धिः स्याद्भुक्तोच्छिष्टं (समा) तथाचरेत् । वापीकूपतडागानां दूषितानाच शोधनम् ।।२२७ उद्धरेद्धटशतं पूर्ण पञ्चगव्येन शुद्धयति । अस्थिचर्मावसिक्तेषु खरश्वानादिदूषिते ॥२२८ उद्धरेदुदकं सर्व शोधनं परिमार्जनम् ।।२२६ गोदोहने चर्मपुटे च तोयं यन्त्राकरे कारुकशिल्पिहस्ते । स्त्रीबालवृद्धाचरितानि यान्यप्रत्यक्षदृष्टानि शुचीनि तानि ॥२३० प्राकाररोधे विषमप्रदेशे सेनानिवेशे भवनस्य दाहे। आरब्धयज्ञेषु महोत्सवेषु तथैव दोषा न विकल्पनीयाः ॥२३१ प्रपास्वरण्ये झढकस्य(घटकस्य)कूपे द्रोण्यां जलं कोशविनिर्गतञ्च । श्वपाकचण्डालपरिग्रहे तु पित्वा जलं पञ्चगव्येन शुद्धिः ।।२३२ रेतोविण्मूत्रसंस्पृष्टं कौपं यदि जलं पिवेत् । त्रिरात्रेणैव शुद्धिः त्यात् कुम्भे सान्तपनं तथा ॥२३३ क्लिन्नभिन्नशवं यत् स्यादज्ञानादुदकं पिवेत् । प्रायश्चित्तं चरेत् पीत्वा तप्तचन्हं द्विजोत्तमः ।।२३४ उष्ट्रीक्षीरं खरीक्षीरं मानुषीक्षीरमेव च। प्रायश्चित्तं चरेत् पीत्वा तप्तकृच्छ द्विजोत्तमः ॥२३५ वर्णवाटेन संस्पृष्ट उच्छिष्टस्तु द्विजोत्तमः । पञ्चरात्रोषितो भूत्वा पञ्चगव्येन शुद्धयति ।।२३६
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy