SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ शुद्धि-स्पर्शादि-प्रायश्चित्तम् । ३७१ उपभोग्यास्तु ते सर्वे पुष्पेषु च फलेषु च । चाण्डालेन तु संस्पृष्टं यत्तोयं पिकति द्विजः ॥२०४ कृच्छ्रपादेन शुद्धथत आपस्तम्बोऽब्रवीन्मुनिः । श्लेष्मोपानहविण्मूत्रस्त्रीरजोमचमेव च ॥२०५ एभिः सन्दूषिते कूपे तोयं पीत्वा कथं विधिः । एकं द्वयहं व्यहन्चैव द्विजातीनां विशोधनम् ।।२०६ प्रायश्चित्तं पुनश्चैव नक्तं शूद्रस्य दापयेत् । सद्यो वान्ते सचैलं तु विप्रस्तु स्नानमाचरेत् ॥२०७ पर्युषिते त्वहोरात्रमतिरिक्त दिनत्रयम् । शिरःकण्ठोरु पादांश्च सुरया यस्तु लिप्यते ।।२०८ दशतितथैकाहं चरेदेवमनुक्रमात् ।। अत्राप्युदाहरन्ति ॥ प्रमादान्मद्यपः सुरां सकृत्पीत्वा द्विजोतमः। मोमूत्रयावकाहारो दशरात्रेण शुद्धचति ॥२०६ मद्यपस्य निषादस्य यस्तु भुक्त द्विजोत्तमः । न देवा भुञ्जते तत्र न पिवन्ति हविर्जलम् ॥२१० चितिभ्रष्टा तु या नारी ऋतु भ्रष्टा च व्याधितः । प्राजापत्येन शुध्येत ब्राह्मणान् भोजयेहश ॥२११ ये च प्रब्रजिता विप्राः प्रव्रज्याग्निजलावहाः ॥२१२ अनाशकान्निवर्तन्ते चिकीर्षन्ति गृहस्थितिम् । धारयेन्त्रीणि कृच्छाणि चान्द्रायणमथापि वा ।।२१३ जातकर्मादिकं प्रोक्तं पुनः संस्कारमर्हति । नाशौचं नोदकं नाव नोपवादानुकम्पने ॥२१४
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy