________________
३७०
अत्रिसंहिता ।
भुञ्जते मानवाः पश्चान ता दुष्यन्ति कर्हिचित् । असवर्णैस्तु यो गर्भः खीणां योनौ निषिध्यते ॥ १६३ अशुद्धा सा भवेन्नारी यावद्धर्मं (गर्भ) न मुध्यति । विमुक्त तु ततः शल्ये रजश्चापि प्रदृश्यते ॥ १६४ तदा सा शुद्धयते नारी विमलं कावनं यथा । स्वयं विप्रतिपन्ना या यदि वा विप्रतारिता । १६५ वलान्नारी प्रभुक्ता वा चौरमुक्ता तथाऽपि वा । न त्याज्या दूषिता नारी न कामोऽस्या विधीयते ।। १६६ ऋतुकाल उपासीत पुष्पकालेन शुद्धयति । रजकर्मकारश्च नटो बुरुड एव च ॥ १६७ कैवर्तमेदभिल्लाश्च सप्तैते चान्त्यजाः स्मृताः । एषां गत्रा स्त्रियो मोहाद्भुक्ता च प्रतिगृझ च ॥१६८
कृच्छ्राब्दमाचरेज्ज्ञानादज्ञानादैन्दवद्वयम् ।
सकृद्भुक्ता (क्ता) तु या नारी म्लेच्छर्या पापकर्मभिः ॥१६६ प्राजापत्येन शुद्धयत ऋतुप्रसवणेन तु । बलाद्ध, ता स्वयं वाऽपि परप्रेरितया येदि ||२०० सकृद्भुक्ता तु या नारीप्राजापत्येन (शुद्धयति ) गृह्णति । प्रारब्धदीर्घतपसां नारीणां यद्रजो भवेत् ॥ २०१ न तेन तद्वतं तासां विनश्यति कदाचन । मद्यसंस्पृष्टकुम्भेषु यत्तोयं पिवति द्विजः || २०२ कृच्छ्र पादेन शुद्धयत पुनः संस्कारमर्हति । अन्त्यजस्य तु ये वृक्षा बहुपुष्पफलोपगाः ॥२०३