________________
शुद्धि प्रकरणम् । लिया म्लेच्छस्य सम्पर्काच्युद्धिः सान्तपने तथा। ताछ पुनः कृत्वा शुद्धिरेषाऽभिधीयते ॥१८२ सम्वतंत यथा भार्यां गत्वा म्लेच्छस्य सङ्गताम् । सचैलं स्नानमादाय घृतस्य प्राशनेन च ॥१८३ स्नात्वा नचुदकैश्चैव घृतं प्राश्य विशुद्धयति । संगृहीतामपत्यार्थमन्यैरपि तथा पुनः ॥१८४ चाण्डालम्लेच्छश्वपचकपालव्रतधारिणः। अकामतः स्त्रियो गत्वा पराकेग विशद्धयति ।।१८५ कामतस्तु प्रसूतो वा तत्समो नात्र संशयः । स एव पुरुष स्तत्र गर्भो भूत्वा प्रजायते ॥१८६ तैलाभ्यतो घृताभ्यक्तो विण्मूत्रं कुरुते द्विजः। तैलाभ्यक्तो घृताभ्यक्तचाण्डालं स्पृशते द्विजः ॥१८७ अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्धयति ।:: केशकीटनखस्नायु अस्थिकण्टकमेव च ।।१८८ स्पृष्टा नधुदके स्नात्वा घृतं प्राश्य विशुद्धयति । मत्स्यास्थिजम्बुकास्थोनि नखशुक्तिकपर्दिकाः ॥१८६ स्पृष्ट्वा स्नात्वा हेमतप्तघृतं पीत्वा विशुद्धयति । गोकुले कन्दुशालायां तैलचक्रेक्षुचक्रयोः ।।१६० अमोमांस्यानि शौचानि स्त्रीणाश्च व्याधितस्य च । न सो दूष्यति जारेण ब्राह्मणोऽवेदकर्मणा ॥१६१ नाऽऽपो मूत्रपुरीषाभ्यां नामिर्दहति कर्मणा । पूर्व स्त्रिय सुरैर्भुक्ताः सोमगन्धर्ववलिभिः ।।१६२