SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ ३६८ अत्रिसंहिता। एतेषां यस्तु भुक्ते वै द्विजश्चान्द्रायणञ्चरेत् । सन्त्यिजानां गमने भोजने सम्प्रवेशने ॥१७१ पराकेण विशुद्धिः स्याद्भगवानत्रिरब्रवीत्। चाण्डालभाण्डे यत्तोयं पीत्वा चैव द्विजोत्तमः॥१७२ गोमूत्रयाबकाहारः सप्तत्रिंशदहान्यपि। संस्पृष्टं यस्तु पक्कानमन्त्यजैर्वाऽप्युदक्यया ॥१७३ अज्ञानाद्ब्राह्मणोश्नीयात् प्राजापत्याधमाचरेत् । चाण्डालान्नं यदा भुङ्क्त चातुर्वर्णस्य निष्कृतिः ॥१७४ चान्द्रायणं चरेद्विप्रः क्षत्रः सान्तपनं चरेत् । षडानमाचरेद्वैश्यः पञ्चगव्यं तथैव च ॥१७५ त्रिरात्रमाचरेच्छूद्रो दानं दत्त्वा विशुद्धयति । ब्राह्मणो वृक्षमारूढश्चाण्डालो मूलसंस्पृशः ॥१७६ फलान्यत्ति स्थितस्तत्र प्रायश्चित्तं कथं भवेत् । ब्राह्मणान् समनुज्ञाप्य सवासाः स्नानमाचरेत् ॥१७७ नक्तभोजी भवेद्विप्रो घृतं प्राश्य विशुद्धयति । एकवृक्षसमारूढश्चाण्डालो ब्राह्मणस्तथा ॥१७८ फलान्यत्ति स्थितं तत्र प्रायश्चित्तं कथं भवेत्। ब्राह्मणान् समनुज्ञाप्य सवासाः स्नानमाचरेत् ॥१७६ अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्धयति । एकशाखासमारूढश्चाण्डालो ब्राह्मणो यदा ॥१८० फलान्यत्ति स्थितस्तत्र प्रायश्चित्तं कथं भवेत् । त्रिरात्रोपोषितो भूत्वा पञ्चगव्येन शुद्धथति ॥१८१
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy