________________
धर्मशास्त्रोपदेशवर्णनम् । यतिहस्ते जलं दद्याद्भिक्षां दद्यात् पुनर्जलम् । तद्भक्षं मेरुणा तुल्यं तज्जलं सागरोपमम् ॥१६० चरेन्माधुकरी वृत्तिमपि म्लेच्छकुलादपि । एकान्नं नैव. भोक्तव्यं वृहस्पतिकुलादपि ॥१६१ अनापदि चरेद्यस्तु सिद्ध भैक्षं गृहे वसन् । दशरात्रं पिवेद्वञमापस्तु व्यहमेव च ॥१६२ गोमूत्रेण तु संमिश्र यावकं घृतपाचितम् । . एतद्वनमिति प्रोक्तं भगवानत्रिरब्रवीत् ॥१६३ ब्रह्मचारी यतिश्चैव विद्यार्थी गुरुपोषकः । अध्धगः क्षीणवृत्तिश्च षडेते भिक्षुकाः स्मृताः॥१६४ यक्ष्मासान् (षण्मासान्)कामयेन्मयो गर्भिणीमेव च स्त्रियम् । आ दन्तजननादूर्ध्वमेष धर्मो विधीयते ।।१६५ ब्रह्महा प्रथमञ्चैव द्वितीयं गुरुतल्पगः । तृतीयन्तु सुरापोऽयं चतुर्थं रतेयमुच्यते ॥१६६ (आपो गावस्तिलाभूमिर्गन्धो वा स्तेयते तथा ।) पापानाठचैव संसर्गः पञ्चमं पातकं महत् । एषामेव विशुद्धयर्थं चरेद्वर्षा(कृच्छ्रा)ण्यनुक्रमात् ॥१६७ त्रीणि कृच्छाण्यकामश्चेद्ब्रह्महत्यां व्यपोहति । अर्द्धन्तु ब्रह्महत्यायाः क्षत्रियेषु विधीयते ॥१६८ षड्भागो द्वादशश्चैव विशूद्रयोस्तथा भवेत् । त्रीन् मासाभक्तमश्नीयाद्भूमौ शयनमेव च ॥१६६ स्त्रीघातः शुद्धयतेऽन्येवं चरेत् कृच्छ्राब्दमेव च । रजकः शैलुषश्चैव वेणुकर्मोपजीवनः ।।१७०