SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ኣኣ अत्रिसंहिता। नास्ति वेदात् परं शालं नास्ति मातुः परो गुरुः । नास्ति दानात् परं मित्रमिह लोके परत्र च ॥१५० अपात्रे ह्यपि यहत्तं दहत्यासप्तमं कुलम् । हव्यं देवा न गृह्णन्ति कव्यञ्च पितरस्तथा ॥१५१ आयसेन तु पात्रेण यदन्नमुपदीयते । अन्नं विष्ठासमं भोक्तुर्दाता च नरकं व्रजेत् ॥१५२ इतरेण तु पात्रेण दीयमानं विचक्षणः। न दद्याद्वामहस्तेन आयसेन कदाचन ॥१५३ मृण्मयेषु च पात्रेषु यः श्राद्ध भोजयेत् पितॄन् । अन्नदाता च भोक्ता च तावेव नरकं ब्रजेत् ॥१५४ अभावे मृण्मये दद्यादनुज्ञातस्तु ते जिः । तेषां वचः प्रमाणं स्याहतञ्चानृतमेव च ॥१५५ सौवर्णायसताम्रषु कांस्यरौप्यमयेषु च । भिक्षादातु न धर्मोऽस्ति भिक्षुर्भुक्ते तु किल्विषम् ।।१५६ न च कास्येषु भुञ्जीयादापद्यपि कदाचन। पलाशे यतयोऽश्नन्ति गृहस्थः कांस्यभाजने ॥१५७ कांस्यकस्य च यत्पापं गृहस्थस्य तथैव च। . कांस्यभोजी यतिश्चैव प्राप्नुयात् किल्विषं तयोः ॥१५८ अत्राप्युदाहरन्ति । सौवर्णायसताम्रषु कांस्यरौप्यमयेषु च । भुञ्जन् भिक्षुर्न दूष्येत दूष्येश्चैव परिग्रहात् ॥१५६
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy