________________
धर्मशास्त्रोपदेशवर्णनम् । श्राद्ध यो विवाहे च पत्नी दक्षिणतः सदा । सोमः शौचं ददौ तासां गन्धर्वाश्च तथाङ्गिराः ॥१३६ पावकः सर्वमेध्यं च मेध्यं वै योषितां सदा । जन्मना ब्राह्मणो शेयः संस्कारैर्द्विज उच्यते ॥१४० विद्यया याति विप्रत्वं श्रोत्रियस्त्रिभिरेव च । वेदशास्त्राण्यधीते यः शास्त्रार्थञ्च निषेवते ॥१४१ तदासौ वेदवित् प्रोक्तो वचनन्तस्य पावनम् । . एकोऽपि वेदविद्धमं यं व्यवस्येद्विजोत्तमः ॥१४२ स शेयः परमो धर्मो नाज्ञानामयुतायुतैः । पावकाइव दोप्यन्ते जपहोमैर्द्विजोत्तमाः ॥१४३ प्रतिग्रहेण नश्यन्ति वारिणा इव पावकः । तान् प्रतिग्रहजान् दोषान् प्राणायामै द्विजोत्तमाः॥१४४ उत्सादयन्ति विद्वांसो वायुमघानिवाम्बरे । भुक्ताचम्य यदा विप्र आर्द्रपाणिस्तु तिष्ठति ॥१४५ लक्ष्मीबलं यशस्तेज आयुश्चैव प्रहीयते । यस्तु भोजनशालायामासनस्थ उपस्पृशेत् ।।१४६ तस्यान्नं नैव भोक्तव्यं भुक्ता चान्द्रायणञ्चरेत् । पात्रोपरिस्थितं पात्रं यः संस्थाप्य उपस्पृशेत् ॥१४७ तस्यान्नं नैव भोक्तव्यं भुक्ता चान्द्रायणञ्चरेत् । न देवास्तृप्तिमायान्ति दातुर्भवति निष्फलम् ॥१४८ हस्तं प्रक्ष्याल्य यस्त्वापः पिवेद्भुक्ता द्विजोत्तमः । तदन्नमसुरैर्भुक्तं निराशाः पितरो गताः ॥१४६