SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ३६४ ___ अत्रिसंहिता। द्वादशाहोपवासेन पराकः परिकीर्तितः। पिण्याकदधिशक्तूनां प्रासश्च प्रतिवासरम् ॥१२८ एकैकमुपवासः स्यात् सौम्यकृच्छः प्रकीर्तितः । एषां त्रिरात्रमभ्यासादेकैकस्य यथाक्रमम् ।।१२६ तुलापुरुषइत्येष ज्ञेयः पञ्चदशाहिकः । कपिलागोस्तु दुग्धाया धारोष्णं यत्पयः पिवेत् ॥१३० एष व्यासकृतः कृच्छः श्वपाकमपि शोधयेत् । निशायां भोजनञ्चैव तज्ज्ञेयं नक्तमेव तु ॥१:१ अनादिष्टेषु पापेषु चान्द्रायण मथोदितम् । अग्निष्टोमादिभिर्यज्ञैरिष्टैद्विगुणदक्षिणैः ।।१३२ यत्फलं समवाप्नोति तथा कृच्छ्रस्तपोधनः । वेदाभ्यासरतः क्षान्तो धर्मशास्त्राण्यवेक्षयेत् ॥१३३ शौचाचारसमायुक्तो गृहस्थोऽपि हि मुच्यते। उक्तमेतद्विजातीनां महर्षे ! श्रूयतामिति ॥१३४ अतः परं प्रवक्ष्यामि स्त्रीशूद्रपतनानि च । जपस्तपरतीर्थयात्रा प्रव्रज्या मन्त्रसाधनम् ।।१३५ देवताराधनञ्चैव स्त्रीशूद्रपतनानि षट् । जीवद्भर्त्तरि या नारी उपोष्य व्रतचारिणी ॥१३६ आयुष्यं हरते भर्तुः सा नारी नरकं ब्रजेत् । तीर्थस्नानार्थिनी नारी पतिपादोदकं पिवेत् ।।१३७ शङ्करस्यापि विष्णोर्वा प्रयाति परमं पदम् । जीवद्भर्त्तरि वामाङ्गी मृते वापि सुदक्षिणे ॥१३८
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy