SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ धर्मशास्त्रोपदेशवर्णनम् । ३६१ बालस्त्वन्तर्दशाहेतु पञ्चत्वं यदि गच्छति । सद्यएव विशुद्धिः स्यान्न प्रेतं नैव सूतकम ।।६५ कृतचूडस्तु कुर्वीत उदकं पिण्डमेव च । स्वधाकारं प्रकुर्वीत नामोच्चारण मेव च ॥६६ ब्रह्मचारी यतिश्चैवं मन्त्रे पूर्वकृते तथा । यज्ञे विवाहकाले च सद्यः शौचं विधीयते ॥६७ विवाहोत्सबयज्ञेष्वनन्तरामृतसूतके । पूर्वसङ्कल्पितार्थस्य न दोषश्चात्रिरब्रवीत् ।।६८ मृतसंजननादूद्धं सूतकादौ विधीयते । स्पर्शनाचमनाच्छुद्धिः सूतिकाञ्चन्न संस्पृशेत् ॥६६ पञ्चमेऽहनि विज्ञेयं संस्पर्श क्षत्रियस्य तु। सप्तमेऽहनि वैश्यस्य विज्ञेयं स्पर्शनं बुधैः ॥१०० दशमेऽहनि शूद्रस्य कर्त्तव्यं स्पर्शनं बुधैः । मासेनैवात्मशुद्धिः स्यात् सूतके मृतके तथा ॥१०१ ब्याधितस्य कदर्यस्य भृणप्रस्तस्य सर्वदा । क्रियाहीनस्य मूर्खस्य स्त्रीजितस्य विशेषतः ॥१०२ व्यसनासक्तचित्तस्य पराधीनस्य नित्यशः। स्वाध्यायब्रतहीनस्य सततं सूतकं भवेत् ॥१०३ द्वे कृच्छ्र परिवित्तेस्तु कन्यायाः कृच्छ्रमेव च । कृच्छातिकृच्छमातुः स्याद्वेत्तुः सान्तपनं स्मृतम् ।।१०४ कुअवामनखञ्जषु गर्हितेऽथ जडेषु च । जात्यन्धवधिरे मूके न दोषः परिवेदने ॥१०५
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy