________________
धर्मशास्त्रोपदेशवर्णनम् ।
३५६ शुना चैव तु संस्पृष्टस्तस्य स्नानं विधीयते । तदुच्छिष्टन्तु संप्राश्य षण्मासान् कृच्छ्रमाचरेत् ।।७३ असंस्पृष्ठेन संस्पृष्टः स्नानं तेन विधीयते । तस्य चोच्छिष्टमश्नीयात् षण्मासान कृच्छमाचरेत् ।।७४ अज्ञानात् प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च । पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ।।७५ वपनं मेखला दण्डो भैक्षचर्यब्रतानि च। .. निवर्तन्ते द्विजातीनां पुनः संस्कारकर्मणि ।।७६ गृहशुद्धिं प्रवक्ष्यामि अन्तःस्थशवदूषिताम् । . प्रायोज्यं मृण्मयं भाण्डं सिद्धमन्नं तथैव च ॥७७ गृहानिष्क्रम्य तत्सवं गोमयेनोपलेपयेत् । गोमयेनोपलिप्याथ छागेनाघ्रापयेत् पुनः ।।७८ ब्राझैमन्त्रैस्तु पूतन्तु हिरण्यकुशवारिभिः । तेनैवाभ्युक्ष्य तद्वेश्म शुद्धते नात्र संशयः ।।७६ राज्ञान्यैः श्वपचर्वापि बलाद्विचालितो द्विजः । पुनः कुर्वीत संस्कारं पश्चात् कृच्छ्त्रयञ्चरेत् ।।८० शुना चैव तु संस्पष्टस्तस्य स्नानं विधीयते । तदुच्छिष्टन्तु संप्राश्य यत्नेन कृच्छमाचरेत् ।।८१ अतः परं प्रवक्ष्यामि सूतकस्य विनिर्णयम् । प्रायश्चित्तं पुनश्चैव कथयिष्याम्यतः परम् ।।८२ एकाहाच्छद्धयते विप्रो योऽग्निवेदसमन्वितः । यहान् केवलवेदस्तु निर्गुणो दशभिर्दिनैः ॥८३