________________
३५८
अत्रिसंहिता। पलासविल्वपत्राणि कुशान् पद्मान्युदुम्बरम् । काथयित्वा पिबेदापत्रिरात्रेणैव शुद्धयति ।।६२ सायं प्रातस्तु यः सन्ध्यां प्रमादाद्विक्रमेत् सकृत् । गायत्र्यास्तु सहस्रं हि जपेत् स्नात्वा समाहितः ॥६३ शोकाक्रान्तोऽथवा श्रान्तः स्थितः स्नान(स्थान)जपाद्वहिः । ब्रह्मकूर्च चरेद्भक्त्या दानं दत्त्वा विशुद्धयति ।।६४ गवां शृङ्गोदके स्नात्वा महानद्युपसङ्गमे । समुद्रदर्शनेनैव व्यालदष्टः शुचिर्भवेत् ॥६५ वृकश्वानशृगालैस्तु यदि दुष्टश्च ब्राह्मणः । हिरण्योदकसंमिश्रं घृतं प्राश्य विशुद्धयति ॥६६ ब्राह्मणी तु शुना दष्टा जम्बुकेन वृकेण वा । उदितं ग्रहनक्षत्रं दृष्ट्वा सद्यः शुचिर्भवेत् ॥६७ सव्रतश्च शुना दष्टस्त्रिरात्रमुपवासयेत्।। सघृतं यावकं प्राश्य व्रतशेषं समापयेत् ॥६८ मोहात् प्रमादात् संलोभाबतभङ्गं तु कारयेत्। त्रिरात्रेणैव शुद्धयत पुनरेव व्रती भवेत् ॥६६ ब्राह्मणान्नं यदुच्छिष्टमश्नात्यज्ञानतो द्विजः। दिनद्वयं तु गायव्या जपं कृत्वा विशुद्धयति ।।७० क्षत्रियान्नं यदुच्छिष्टमश्नात्यज्ञानतोद्विजः । त्रिरात्रेण भवेच्छुद्धिर्यथा क्षत्रे तथा विशि ||७१ अभोज्यान्नं यथा भुक्ता(तु भुक्तान)स्त्रीशूद्रोच्छिष्टमेव वा। जग्ध्वा मांसमभक्ष्यन्तु सप्तरात्रं यवान् पिवेत् ।।७२