SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ धर्मशास्त्रोपदेशवर्णनम् । ___३५७ मातरं पितरं वाऽपि भ्रातारं सुहृदं गुरुम् । यमुद्दिश्य निमज्जेत द्वादशांशफलं लभेत् ॥५१ अपुत्रेणैव कर्त्तव्यः पुत्रप्रतिनिधिः सदा । पिण्डोदकक्रियाहेतोर्यस्मात्तस्मात् प्रयत्नतः ॥५२ पिता पुत्रस्य जातस्य पश्येच्चेज्जीवतो मुखम् । ऋणमस्मिन् संनयति अमृतत्वञ्च गच्छति ॥५३ जातमात्रेण पुत्रेण पितृणामनृणी पिता। तदह्नि शुद्धिमाप्नोति नरकात्त्रायते हि सः ॥५४ जायन्ते बहवः पुत्रा योकोऽपि गयां व्रजेत्। यजते चाश्वमेधञ्च नीलं वा वृषमुत्सृजेत् ॥५५ काङ्कुन्ति पितरः सर्वे नरकान्तरभीरवः । गयां यास्यति यः पुत्रः स नखाता भविष्यति ॥५६ फल्गुतीर्थे नरः स्नात्वा दृष्ट्वा देवं गदाधरम् । गयाशीष पदाऽऽक्रम्य मुच्यते ब्रह्महत्यया ॥५७ महानदीमुपस्पृश्य तर्पयेत् पितृदेवताः। अक्षयान् लभते लोकान् कुलञ्चैव समुद्धरेत् ।।५८ शङ्कास्थाने समुत्पन्ने भक्ष्यभोग (भोज्य) विवर्जिते । आहारशुद्धिं वक्ष्यामि तन्मे निगदतः शृणु ॥५६ अक्षारलवणं भैक्षं (रोक्षं) पिवेद्ब्राह्मी सुवर्चसम । त्रिरात्रं शङ्खपुष्पीम्बा ब्राह्मणः पयसा सह ॥६० मद्यभाण्डाद्विजः कश्चिदज्ञानात् पिबते जलम् । प्रायश्चित्तं कथं तस्य मुच्यते केन कर्मणा ॥६१
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy