SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ३५६ अत्रिसंहिता। अहन्यहनि दातव्यमदीनेन्तरात्मना । स्तोकादपि प्रयत्नेन दानमित्यभिधीयते ॥४० परस्मिन् बन्धुवर्गे वा मित्रे द्वेष्ये रिपौ तथा । आत्मवद्वर्तितव्यं हि दयैषा परिकीर्तिता ॥४१ यश्चैतैर्लक्षणैर्युक्तो गृहस्थोऽपि भवेद्विजः। स गच्छति परं स्थानं जायते नेह वै पुनः ॥४२ अग्निहोत्रं तपः सत्यं वेदानाञ्चैव पालनम् । आतिथ्यं वैश्वदेवश्च इष्टमित्यभिधीयते ॥४३ वापीकूपतडागादि देवतायतनानि च । अन्नप्रदानमारामाः पूर्त्तमित्यभिधीयते ॥४४ इष्टं पूर्ण प्रकर्त्तव्यं ब्राह्मणेन प्रयत्नतः । इष्टेन लभते स्वर्ग पूर्तेन मोक्षमाप्नुयात् ।।४५ इष्टापूर्ती द्विजातीनां सामान्यौ धर्मधिनौ । अधिकारी भवेच्छूद्रः पूर्ते धर्मे न वैदिके ॥४६ यमान् सेवेत सततं न नित्यं नियमान् बुधः । यमान् पतत्यकुर्वाणो नियमान् केवलान् भजन् ।।४७ आनृशंस्यं क्षमा सत्यमहिंसा दानमार्जवम् । प्रीतिः प्रसादो माधुय्यं मार्दवञ्च यमा दश ।।४८ शौचमिज्या तपोदानं स्वाध्यायोपस्थनिग्रहः । व्रतमौनोपवासाश्च स्नानञ्च नियमा दश ॥४६ प्रतिकृतिं कुशमयीं तीर्थवारिषु मजयेत् । यमुद्दिश्य निमज्जेत अष्टभागं लभेत सः ॥५०
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy