SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ धर्मशास्त्रोपदेशवर्णनम् । यत् प्रजापालने पुण्यं प्राप्नुवन्तीह पार्थिवाः । न तु ऋतुसहस्रेण प्राप्नुवन्ति द्विजोत्तमाः ।।२६ अलाभे देवखातानां हृदेषु च सरसु च । उद्ध,त्य चतुरः पिण्डान् पारके स्नानमाचरेत् ॥३० वसाशुक्रमसृङमज्जा मूत्रविट कर्णविण्णखाः। श्लेष्मास्थि दूषिकाः स्वेदो द्वादशैते नृणां मलाः ॥३१ षण्णां षण्णां क्रमेणैव शुद्धिरुक्ता मनीषिभिः। मृद्वारिभिश्च पूर्वेषामुत्तरेषान्तु वारिणा ॥३२ शौचमङ्गलमायासाअनसूयाऽस्पृहा दमः । लक्षणानि च विप्रस्य तथा दानं दयापि च ॥३३ न गुणान् गुणिनोहन्ति स्तौति चान्यान् गुणानपि । न हसेच्चान्नदोषांश्च सानसूया प्रकीर्तिता॥३४ अभक्ष्यपरिहारश्च संसर्गश्चाप्यनिन्दितैः। . आचारेषु व्यवस्थान शौचमित्यभिधीयते ।।३५ प्रशस्ताचरणं नित्यमप्रशस्तविवर्जनम् । एतद्धि मङ्गलं प्रोक्तमृषिभिर्धर्मदर्शिभिः ॥३६ शरीरं पीड्यते येन शुभेन त्वशुभेन वा । अत्यन्तं तन्न कुर्वीत अनायासः सउच्यते ॥३७ यथोत्पन्नेन कर्त्तव्यं सन्तोषः सर्ववस्तुषु । न स्पृहेत् परदारेषु साऽस्पृहा परिकीर्तिता ।।३८ वाह्यमध्यात्मिकं वाऽपि दुःखमुत्पाद्यतेऽपरैः । न कुप्यति न चाहन्ति दम इत्यभिधीयते ॥३६
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy