SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ अत्रिसंहिता। आत्मीये संस्थितो धर्मे शूद्रोऽपि स्वर्गमश्नुते । परधर्मो भवेत्त्याज्यः सुरूपपरदारवत् ॥१८ बध्यो राज्ञा स वै शूद्रो जपहोमपरश्च यः। ततो राष्ट्रस्य हन्ताऽसौ यथा वह्नश्च वै जलम् ॥१६ प्रतिग्रहोऽध्यापनञ्च तथाऽविक्रेयविक्रयः । याज्यं चतुर्भिरप्येतैः क्षत्रविट्पतनं स्मृतम् ॥२० सद्यः पतति मांसेन लाक्षया लवणेन च । त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात् ।।२१ अवताश्चानधीयाना यत्र भैक्षच द्विजाः। तं ग्राम दण्डयेद्राजा चौरभक्तप्रदं बुधैः ।।२२ विद्वद्भोज्यमविद्वांसो येषु राष्ट्रषु भुञ्जते । तेऽप्यनावृष्टिमिच्छन्ति महद्वा जायते भयम् ।।२३ ब्राह्मणान् वेदविदुषः सर्वशास्त्रविशारदान् । तत्र वर्षति पर्जन्यो यत्रतान् पूजयेन्नृपः ।।२४ त्रयो लोकास्त्रयो वेदा आश्रमाश्च त्रयोऽग्नयः । एतेषां रक्षणार्थाय संसृष्टा ब्राह्मणाः पुरा ।।२५ उभे सन्ध्ये समाधाय मौनं कुर्वन्ति ये द्विजाः । दिव्यवर्षसहस्राणि स्वर्गलोके महीयते ॥२६ य एवं कुरुते राजा गुणदोषपरीक्षणम् । यशः स्वर्ग नृपत्वञ्च पुनः कोषं समृद्धयेत् ॥२७ दुष्टस्य दण्डः सुजनस्य पूजा न्यायेन कोषस्य च संप्रवृद्धिः । अपक्षपातोऽर्थिषु राष्ट्ररक्षाःपञ्चैव यज्ञाः कथिता नृपाणाम्॥
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy