________________
३५१
स्वर्गसुखप्राप्ति फलम् । इष्ट्वा ऋतुशतैरेवं देवराजो महाद्युतिः । स्वगुरुं वाग्मिनां श्रेष्ठ पर्यपृच्छबृहस्पतिम् ॥१ भगवन् ! केन दानेन स्वर्गतः सुखमेधते । यदक्षयं महाभाग ! त्वं ब्रूहि वदताम्बर ॥२ एवं पृष्टः स इन्द्रेण देवदेवपुरोहितः। वाचस्पतिर्महातेजो वृहस्पति रुवाच ह ॥३ हिरण्यदानं गोदानं भूमिदानश्च वासव ? । एतत्प्रयच्छमानोऽपि स्वर्गतः सुखमेधते ॥४ सुवर्ण रजतं वस्त्रं मणिरत्न बसूनि च । सर्वमेव भवेद्दत्तं वसुधां यः प्रयच्छति ॥५ फलाकष्टां महीं दद्यात् सवीजां सस्यमालिनीम् । यावत् सूर्यकरा लोके तावत् सर्गे महीयते ॥५
इति-आत्रेयस्मृतौ धर्मशास्त्र सम्पूर्णम् ।
शुभमस्तु।