SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ ३४६ पञ्चमोऽध्यायः। प्राजापत्यमसत्याचेत् त्रिरात्रं स्पृष्टभोजने । तद्धस्तभोजनञ्चैव त्रिगुणं सह भोजने ॥५४ चतुर्गुणं तदुच्छिष्टे पानीये त्वद्ध मेव च। उदक्यायाः समीपस्थ मन्नं भुक्तात्वकामतः ॥५५ उपवासेन शुद्धिः स्यात्पिवेद् ब्रह्म सुवर्चलम् । आर्त्तवा यदि चाण्डालमुच्छिष्टेन तु पश्यति ॥५६ आस्नानकालं नाश्रीयादासीना वाग्यता बहिः । पादकृच्छन्तु यः कुर्याद् ब्रह्मकृच्छ पिवेत् पुनः ॥५७ ब्राह्मणान् भोजयेत्पश्चाद्विप्राणा मनुशासनात् । मृतसूतकसम्पर्के मृतुं दृष्ट्वा कथं भवेत् ॥५८ आस्नानकालं नाश्नीयाद् भुक्ता चान्द्रायणं चरेत् । आर्त्तवाभिप्लुता नारी चण्डालं स्पृशते यदि ॥५६ आर्त्तवाभिप्लुता नारी आर्त्तवाभिप्लुता स्पृशेत् । स्नात्वोपवासं कुर्याच पञ्चगव्येन शुध्यति ॥६० कृच्छमेकञ्चरेत्सा तु तदर्थं चान्तरीकृते । आतुरा या ऋतुस्नाता स्नानकर्म कथं भवेत् ॥६१ स्नात्वा स्नात्वा पुनःस्पृश्य दशकृत्वस्त्वनातुराः। वस्त्रापनयनं कृत्वा भस्मना परिमार्जयेत् ॥६२ दत्त्वा तु शक्तितो दानं पुण्याहेन विशुन्यति । ब्रह्मणानां करैर्मुक्तं तोयं शिरसि धारयेत् ॥६३ सर्वतीर्थतटात्पुण्याद्विशिष्टतरमुच्यते । रजस्वलायाः प्रेतायाः संस्कारं नाचरेद्विजः॥६४
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy