SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ३४८ अत्रिस्मृतिः। इति पश्येत्तु भुक्त्वा तु पादुकारोहणं स्मृतम् । स्नात्वैन्द्रव्रतमादाय देवताभ्यो निवेदयेत् ।।४३ अपूपं लवणं मुद्गं गुडमिश्रं तथा हविः । दक्त्वा ब्राह्मणपत्नोभ्यो निशि भोजनमेव च ।।४४ चतुर्थेऽहनि कर्त्तव्यं क्षुरकर्माति(मृतुशान्तिश्च यत्नतः। पुण्याहं वाचयित्वान्ते भोक्तव्यं (होतव्यं) शुद्धिमिच्छता ॥४५ अपुण्याहे तु भुञ्जीत विप्रो धर्ममजानतः । तस्य जातिमयं भुङ्क्ते प्रायश्चित्तं ध्रुवं भवेत् ॥४६ विवाहे वितते तन्त्रे होमकाल उपस्थिते । कन्यामृतुमती दृष्ट्वा कथं कृर्वन्ति याज्ञिकाः ।।४७ हविष्मत्या स्नापयित्वा त्वन्यवस्त्रमलङ्कृताम् । युञ्जानामाहुतिं कृत्वा ततः कर्म प्रवर्तते ।।४८ प्रथमेऽहनि चाण्डाली द्वितीये ब्रह्मघातकी । तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुष्यति ॥४६ आर्त्तवाभिप्लुतां नारी चण्डालं पतितं शुनम् । भोज्यान्तरे (तु संस्पृश्यन् ) प्रयुज्यन्ते स्नात्वा मान स्तृचं (वाचस्पति) जपेत् ।।५० आर्त्तवाभिप्लुता नारी दृष्ट्वा भुङ्क्ते(कामतः)ऽन्धकातराः । तदन्नं छर्दयित्वा तु कुशवारि पिवेदपः ॥५१ ये तां दत्त्वा (दृष्ट्वा) तु यो भुङ्क्ते प्राजापत्यं विशोधनम् । आर्त्तवाभिप्लुतां नारी आर्त्तवाभिप्लुताभिधः ।।५२ भाषयित्वा तु संमोहादुपवासस्तयोर्भवेत् ।। उदक्यायाः करेणाथ भुक्ता चान्द्रायणं चरेत् ।।५३
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy