SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽध्यायः। ३४७ सूतके सूतकं स्पष्टा स्रानं शावे च सूतके । भुक्ता पीत्वा तदज्ञानादुपवासस्त्र्यहं भवेत् ॥३३ मृण्मयानाञ्च पात्राणां दशाहे (दाहे) शुचिरिष्यते । स्नानादिषु प्रयुक्तानां त्याग एव विधीयते ॥३४ सूतके मृतके चैव मृतान्ते च प्रसूतके। तस्मात्तु शङ्गताशौचे मृताशौचे न शुध्यति ॥३५ सूतकाद्विगुणं शावं शावाद्विगुणमार्त्तवम् । आर्त्तवाद् द्विगुणा सूतिस्ततोऽधिशवदाहकः ॥३६ अनुगच्छेद्यथा (च्छया) प्रेतं ज्ञातिमज्ञातिमेव वा। स्नात्वा सचैलं स्पृष्ट्वाग्नि घृतं प्राश्य विशुध्यति ॥३७ रजता शुध्यते नारी नदी वेगेन शुध्यति । भस्मना शुध्यते कांस्यं पुनः पाकेन मृण्मयम् ॥३८ नोदन्वतोऽम्भसि स्नानं क्षुरकर्म तथैव च । अन्तर्वल्या (रती) पतिः कुर्वन्न प्रजा भवति ध्रुवम् ॥३६ दम्पती शिशुना साद्धं सूतके दशमेऽहनि । और स्नान)कुर्यात्ततः पूता(पिता)दानभोजनयोग्यता ॥४० केशादि दूषिते तीरे न कुर्यात्तिलतर्पणम् । जलमध्ये जलं देयं पितृणां जलमिच्छताम् । घनस्थाने न दातव्यं पितृणां नोपगच्छति ॥४१ रात्रिं कुर्यात् त्रिभागन्तु द्वौ भागौ पूर्व एव च । उत्तरांशः प्रभातेन युज्यते मृत(मृतु)सूतके ।।४२ यदिपश्येतुपूर्व क्रूरवारे मृतिः स्मृता ।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy