________________
३४६
अविस्मृतिः। मुखेन वमितं चान्न तुल्यं गोमांसभक्षणम् । उपदंशान्नशेषं वा भोजने मुखनिःसृतम् ।।२२ द्विजातीनामभोज्यान भुक्ता चान्द्रायणं चरेत् । पीतशेषन्तु यत्तोयं ब्राह्मणः पिवते पुनः ॥२३ अपेयं तद्भवेदापः पीत्वा चान्द्रायणं चरेत् । अनुवंशन्तु भुञ्जीत नानुवंशन्तु संविशेत् ।।२४ अनुवंशन्तु भुञ्जानो दीर्घमायुरवाप्नुयात् । आर्द्रपादस्तु भुञ्जीत नापादस्तु संविशेत् ।।२५ आर्द्रपादस्तु भुञ्जानो दीर्घमायुरवाप्नुयात् । अनार्द्रपादः शयने दीर्घा श्रियमवाप्नुयात् ॥२६ आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः । श्रियं प्रत्यङमुखे भुक्त भृतं भुङ्क्त उदङ्मुखः ॥२७ शावे शवगृहं गत्वा श्मशाने वान्तरेऽपि वा। आतुरं व्यञ्जनं कृत्वा दूरस्थोऽप्यशुचिर्भवेत् ।।२८ अतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत्। सम्बत्सरे व्यतीते तु स्पृष्ट्वापो विशुध्यति ।।२६ निर्देशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च । सवासा जलमाप्लुत्य शुद्धो भवति मानवः ॥३० अशुद्ध स्वयमप्यन्नं न शुद्धरतु यदि स्पृशेत् । विशुध्यत्युपवासेन भुङ्क्ते कृच्छ्रेण स द्विजः॥३१ सूतके सूतकं स्पृष्ट्वा स्नानं शावे च सूतके । सूतकेनैव शुद्धिः स्यान्मृतस्यान्निर्दशे शुचिः॥३२