________________
३४३ .
चतुर्थोऽध्यायः। दशसाहस्रमभ्यस्ता गायत्री शोधनी परा। ब्रह्महा गुरुतल्पी वाऽगम्या गामी तथैव च ॥४ स्वर्णम्तेयी च गोनी च तथा विस्रम्भघातकः । शरणागतघाती च कूटसाक्षी त्वकार्यकृत् ॥५ एवमायेषु चान्येषु पापेष्वभिरतश्चिरम् । प्राणायामांस्तु यः कुर्यात् सूर्यस्योदयनं प्रति ॥६ सूर्यस्योदयनं प्राप्य निर्मला धौतकल्मषाः । भवन्ति भास्कराकारा विधूमा इव पावकाः ॥७ न हि ध्यानेन सदृशं पवित्रमिह विद्यते । श्वपाकेष्वपि भुञ्जानो ध्यानेनैवात्र लिप्यते ॥८ ध्यानमेव व(प)रो धर्मो ध्यानमेव परं तपः । ध्यानमेव परं शौचं तस्माद्धधानपरो भवेत् ॥8 सर्वपापप्रसक्तोऽपि ध्यानं नियतमभ्यसेत् । .
(ध्यायन् निमिष मुच्यते) सर्वदा ध्यानयुक्तश्च तपस्वी पंक्तिपावनः ॥१० पुनस्तपस्वी भवति पंक्तिपावनपावनः ।
इति आत्रेयस्मृतौ चतुर्थोऽध्यायः ।