________________
अविस्मृतिः।
..
चतुरस्रं ब्राह्मणस्य त्रिकोणं क्षत्रियस्य तु। वर्तुलञ्चैव वैश्यस्य शूद्रस्याभ्युक्षणं स्मृतम् । ब्रह्मा विष्णुश्च रुद्रश्च श्रीहुताशन एव च ॥१ मण्डलान्युपजीवन्ति तस्मात् कुर्वन्ति मण्डलम् । यातुधानाः पिशाचाश्च क्रूराश्चैव तु राक्षसाः ।।२ हरन्ति रसमन्नस्य मण्डलेन विवर्जितम् । गोमय मण्डलं कृत्वा भोक्तव्यमिति निश्चितम् ॥३ यत्र कपतितस्यान्नं भुक्ता चान्द्रायणं चरेत् । यतिश्च ब्रह्मचारी च पक्कानस्वामिनावुभौ ॥४ तयोरन्नमदत्त्वा च भुक्ता चान्द्रायणं चरेत् । यतिहस्ते जलं दद्याद्भक्षं दद्यात् पुनर्जलम् ॥५ तद्भक्षं मेरुणा तुल्यं तज्जलं सागरोपमम् । वामहस्तेन यो भुङ्क्ते पयः पिवति वा द्विजः ॥६ सुरापानेन तत्तुल्यं मनुः स्वायम्भुवोऽब्रवीत् । हस्तदत्तास्तु ये स्नेहाल्लवणव्यञ्जनादि च ॥ दातारं नोपतिष्ठन्ति भोक्ता भुञ्जीत किल्विषम् । अभोज्यं ब्राह्मणस्यान्नं वृषलेन निमन्त्रितम् ॥८ तथैव वृषलस्यान्न ब्राह्मणेन निमन्त्रितम् । ब्राह्मणानं ददच्छुद्रः शूद्रान्न ब्राह्मणो ददत् ॥ उभावेतावभोज्यान्नौ भुक्ता चान्द्रायणं चरेत् । अमृतं ब्राह्मणस्यान्न क्षत्रियानं पयः स्मृतम् ॥१०