________________
तृतीयोऽध्यायः।
३४१ त्रीण्याज्यदोहानि रथन्तरञ्च-अग्ने वामदेव्यं वृहन्छ । एतानिजप्यानिपुनातिपापाजातिस्मरत्वंलभतेयदिच्छेत् ॥१५ अग्नेरपत्यं प्रथमं हिरण्यं भूवैष्णवी सूर्यसुताश्च गावः। लोकास्रयस्ते न भवन्तिदत्ताःयःकाञ्चनङ्गाञ्चमहीञ्चदयात्।। सर्वेषामेव दानानामेकजन्मानुगं फलम । हाटकक्षितिधेनूनां सप्तजन्मानुगं फलम् ।।१७।। सर्वकामफला वृक्षा नद्यः पायसकर्दमाः। काञ्चना यत्र प्रासादा स्तत्र गच्छन्ति गोप्रदाः ॥१८ वैशाख्यां पौर्णमास्यान्तु ब्राह्मणान् सप्त पञ्च वा। तिलक्षौद्रेण संयुक्तां स्तर्पयित्वा यथाविधि ॥१६ प्रीयतां धर्मराजेति (तद्वेश्मनिसवर्द्धते) यद्वा मनसि वर्त्तते । यावजीवकृतं पापं तत्क्षणादेव नश्यति ॥२० सुवर्ण(गानि)नाभं यो दद्यात् सुमुखं कृत(मङ्गलम् )मार्गकम् । तिलैर्दद्यात्तस्य पुष्पफलं पुण्यं च यत् शृणु ॥२१ (तिलैर्दद्यात्तु यो भूमिं तस्य पुण्य फलं शृणु) सा सुवर्णधरा धेनुः सशैलवनकानना। या तु सागरपर्यन्ता भवेद्दत्ता न संशयः ।।२२ तिलान् कृष्णाजिने कृत्वा सुवर्णमधुसर्पिषा । ददाति यस्तु विप्राय सर्व तरति दुष्कृतम् ॥२३
इति-आत्रेयस्मृतौ तृतीयोऽध्यायः॥